कवर्गवति च उत्तरपदे प्रातिपदिकान्तनुंविभक्तिषु पूर्वपदस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। वस्त्रयुगिणौ। वस्त्रयुगिणः। स्वर्गकामिणौ। वृषगामिणौ। नुमि वस्त्रयुगाणि। खरयुगाणि। विभक्तौ वस्त्रयुगेण। खरयुगेण।
अनेकाजुत्तरपदार्थ आरम्भः। चकारः "प्रातिपदिकान्तनुम्विभक्षि च"
८।४।११ इत्यनुकर्षणार्थः। तेनोत्तरत्रानुवृत्तिर्न भवति चानुकृष्टपरिभाषया (व्या।प।७६)। "वस्त्रयुगिणौ" इति। "अत इनिठनौ"
५।२।११४ इतीनिः। "को" इति कत्र्तव्ये कुमतीति वजनमकवर्गादावपि यता स्यात्(); इतरथा हि "यस्मिन्विधिस्तदावल्ग्रहणे" (व्या।प।१२७) इति कवर्गादेरेव स्यात्()। दपन वापः, कुम्भस्य वापः कुम्भवापः, माषाणां कुम्भवापो माषकुम्भवापः--"अत इतिठनौ"
५।२।११४ इतीनिः। माषकुम्भवापिणावित्यत्र स्यात्(), वस्त्रयुगिणाअवित्यत्र न स्यादिति॥
कुमति च। अनेकाजुत्तरपदार्थ आरम्भः। "कौ" इत्येव तु न सूत्रितम्। "यस्मिन्विधि"रिति तदादिविधौ कवर्गाद्युत्तरपद एव हरिकामाणीत्यादावयं विधिः स्यान्न तु वस्त्रयुगेणेत्यादौ, तथा च लमतुबन्तनिर्देश आवश्यक इत्याह--कवर्गवतीति।